Brahman(ब्रह्म) and Brahma-jnana: Sri-Vishnu- Dasanama- shodasa nama-satanama-stotram.
What is Brahman?
Brahman = The infinite, eternal, Ultimate Truth.
What is Brahma-jnana?
Brahma-jnana = Realizing that Truth.
According to the Sanatana Dharma scriptures, the four forms of Brahman are- Vasudeva, Sankarsana, Pradyumna, and Aniruddha. These are collectively called the Chatur-vyuha (fourfold) forms.
Scriptural Sources:
Srimad Bhagavatapuraṇa
Vishnu Purana
Pancharatra Agama
[Pancharatra Agama is not the work of a human author; it is an Agamic tradition revealed by Lord Narayana.] [Agama = a traditional divine scripture transmitted through spiritual lineage.]
2. Chatur-vyuha Principles
★Shri Vasudeva:-The original manifest form of the Supreme Brahman; pure consciousness
★Shri Saṅkarṣaṇa:- Associated with the principle of knowledge and ego
★Shri Pradyumna:-The principle of mind or will-power
★Shri Aniruddha:-Associated with intellect and the power of governing the universes
भगवान
यः स्वयंसम्पूर्णः स्वयंसिद्धः स्वातन्त्र्येण संस्थितः।
स एव परमात्मा पूर्णब्रह्म स श्रीभगवान् स्मृतः॥
भगवान
यः स्वयंसम्पूर्णः स्वयंसिद्धः स्थितः स्वातन्त्र्येण।
स एव परमात्मा पूर्णब्रह्म स हि कथ्यते श्रीभगवान्॥
★
भगवतत्त्वविवेचनम्
यः स्वयंसम्पूर्णः स्वयंसिद्धः स्थितः स्वातन्त्र्येण,
स एव परमात्मा पूर्णब्रह्मेति कथ्यते भगवान्॥
यः सर्वज्ञः सर्वशक्तिमान् जगतः कारणं नियन्ता च,
स ईश्वरः स एव भगवान् परमब्रह्मादिदेवः सर्वेश्वरः॥
★
बालगोपालेन ईश्वरलाभः
(मुक्तछन्दः)
मानवो धर्मं कर्म च न जानन्नपि गृहे स्थापयति बालगोपालम्।
चिन्तयन्ति ते,बालगोपालस्य सेवया एव प्राप्स्यन्तीति परं पदं।
धर्मं वदति वारं वारं,ईश्वरप्राप्तौ प्रथमं शुद्धं मनोऽवश्यकम्।
निष्कामं कर्म,निष्कामो धर्मो,भक्तिर्भक्तसम्मानश्च प्रयोजनम्॥
★
बालगोपालेन ईश्वरलाभः
(मुक्तछन्दः)
मानवोऽजानन् धर्मं कर्म च गृहे स्थापयति बालगोपालम्।
चिन्तयन्ति ते, बालगोपालस्य सेवया एव प्राप्स्यन्ति परं पदम्।
धर्मं वदति वारं वारम्, ईश्वरप्राप्तौ शुद्धं मनः प्रथमम् आवश्यकम्।
निष्कामं कर्म, निष्कामो धर्मः,भक्तिः भक्तसम्मानश्च परमं साधनम्॥
★
निराकार ब्रह्म-साकारब्रह्म साधना
अरूपं शान्तमदृश्यं, मनसोऽपि परं तत्त्वम्।
न रूपं न च नामास्ति, केवलं ब्रह्म नित्यम्॥
न दृश्येन्द्रियगोचरे, न तिष्ठति तत्र चित्तं।
चलति विषयमार्गेषु, छायास्वेव वारं वारं॥
कथं गृह्णात्यनन्तं, यः जानाति स्पर्शदृशा।
देहबद्धो हि जीवः, समीपं वाञ्छति सदा॥
तस्मात् सन्तो वदन्ति, सौम्यया वाचा पुनः।
रूपः सेतुर्भवेद् हृदि, भक्तेर्मार्गप्रदर्शकः॥
नामरूपे समारभ्य, चित्तं शान्तिं निगच्छति।
सेवया प्रेमयुक्त्या, तदेकत्वं प्रपद्यते॥
न केवलं शिलामात्रं, प्रतिमा भावसूचिका।
अरूपस्य प्रवेशाय, सा भवेदेव साधिका॥
रूपादारभ्य मार्गः, अरूपे परिणीयते।
भयसंशयविहीनः, आत्मा तत्रैव लीयते॥
तस्मात् रूपं समाश्रित्य, भावभक्तिं विवर्धय।
ततः शान्ते मनसि, ब्रह्मस्पर्शोऽनुभूयते॥
★
सत्यः
यः स्वयंसम्पूर्णः स्वयंसिद्धः स्वातन्त्र्येण स्थितः,
स एव परमात्मा परं ब्रह्म भगवान् हि सत्यम्॥
★
सत्यः
यः स्वयं-संपूर्णः स्वयं-सिद्धः स्वातन्त्र्येण स्थितः,
स एव परमात्मा पूर्ण-ब्रह्म स एव भगवान् हि सत्यम्॥
★
श्रीअनन्तमाधव-नारायण
-नमस्कारस्तोत्रम्
ॐ श्री अनन्तमाधवाय नारायणाय
वासुदेवाय शङ्कर्षणाय प्रद्युम्नाय अनिरुद्धाय
पद्मनाभाय पुरुषोत्तमाय विष्णवे नमः।
ब्रह्मतत्त्वं
★
ब्रह्मतत्त्वविहीनग्रन्थजीवगुरुवर्णनम्
(ब्रह्मतत्त्वमहिमा)
यस्य ग्रन्थे न विद्यते ब्रह्मतत्त्वं,
तत् शास्त्रं न भवति पूर्णसत्यम्॥
यो जीवः न जानाति ब्रह्मतत्त्वं,
स जीवः न जानाति पूर्णतत्त्वम्॥
यो जीवः न जानाति ब्रह्मतत्त्वम्,
स न गुरुः न पण्डितः शास्त्रमतम्॥
यो जीवः न जानाति ब्रह्मतत्त्वम्,
रुद्धमेव भवति तस्य मोक्षद्वारम्॥
★
अन्नब्रह्मतत्त्वश्लोकः
अन्नं ब्रह्मेति श्रुतिषु सनातनम्,
भोजनं यज्ञरूपमुदाहृतम्॥
शुद्धे मनसि यत्र हि शुद्धमन्नम्,
तत्रैव वसति परं ब्रह्म नित्यम्॥
★★
चतुर्व्यूह‑ब्रह्म‑गायत्री‑मन्त्रः
ॐ चतुर्व्यूहरूपं विद्महे
तुलसीपवित्रं धीमहि।
तन्नो ब्रह्म प्रचोदयात्॥
★
शुद्धस्वरूप‑ब्रह्म‑गायत्री‑मन्त्रः
(ब्रह्म-गायत्री-मन्त्रः)
ॐ चतुर्व्यूहरूपं विद्महे
शुद्धस्वरूपं धीमहि।
तन्नो ब्रह्म प्रचोदयात्॥
पञ्चदैवता-स्वरूपवर्णनम्
जगन्नाथं बलभद्रं च प्रद्युम्नं च अनिरुद्धम्।
परमात्मिकां प्रकृतिं च सृष्टेः पञ्चदैवतानि प्रथमम्॥
एतदतिरिक्तं सर्वेषु गृहगृहेषु पञ्चदेवताः।
ते स्वस्थानवर्तिनः सन्ति पञ्चदेवा इति स्मृताः॥
★
भगवदवतारवर्णनम्
भगवतोऽवतारा बहुधा प्रकीर्तिताः,
धर्मसंस्थापनार्थं लोकेऽवतारिताः॥
तेषां तत्त्वरहस्यं गूढं न सुलभं बोधितुम्,
भक्त्या तु दिव्यतत्त्वं हृदि स्फुरति नित्यम्॥
चतुर्व्यूहेषु रूपेषु वासुदेवः परः स्मृतः,
संकर्षणः प्रद्युम्नोऽनिरुद्धश्च अंशावताराः॥
एते हि व्यूहभेदाः दिव्यरूपप्रकाशकाः,
भगवतः स्वरूपस्य भिन्नांशाः प्रकाशकाः॥
तेषामप्यंशरूपाणि लोके विभान्ति नित्यम्,
तानि भगवतः शक्त्या विश्वं बिभ्रति सततम्॥
अन्ये तु गुणावतारा जगति विख्याताः,
सत्त्वादिगुणभेदेन रूपाणि विभ्रताः॥
तेषामपि स्वरूपाणि लोके विभान्ति हि,
लीलया भगवान् विश्वं नित्यं बिभर्ति हि॥
★
भगवत्प्रसन्नता
(मुक्तछन्दः)
यः भक्तः स्तौति भगवतः चतुर्व्यूहरूपम्,
तस्मै भगवान् भवति प्रसन्नः सदा अत्यन्तम्॥
यः भक्तः स्तौति पार्श्वदेवतानां समरूपम्,
तस्मै भगवान् भवति प्रसन्नः सदा सर्वाधिकम्॥
एतदेव हि परमं सत्यं नित्यम्,
सर्वयुगेषु सर्वकालेष्वपरिवर्तनीयम्॥
सर्वकालेष्वपरिवर्तनीयम्=सर्व+ कालेषु + अपरिवर्तनीयम्
अवतारागमन-प्रस्थानस्य गूढत्वम्।
जगन्नाथ एव स्वकं जानात्यवतारसमागतम्।
मर्त्यलोकात् प्रस्थानं तस्यैवास्ति सुबोधितम्॥
न ब्रह्मा न च वेदाश्च न देवासुरमानवाः।
केवलमनुमानेन महिमा तस्य अनुभव्यते॥
☆
हरिलीलारहस्यं
हरिः स्वलीलां जानाति, न जानाति हि संसारः।
अनुमानेन सर्वे तां, गायन्ति तस्य गुणगानम्॥
ब्रह्मापि न जानाति, न वेदाः, नापि देहिनः।
अनुमानेन सर्वे तां, गायन्ति तस्य गुणगानम्॥
योगिनोऽपि हि योगेन, चित्ते तां न विलोकयेत्।
मायावरणे स्थिते रूपे, तत्रालोकः कुतः पुनः॥
💓
अज्ञानिनां मिथ्याप्रचारः
(ब्रह्मतत्त्वे अज्ञानम्)
अज्ञानी मूर्खा न जानन्ति श्रीबलभद्रम्।
श्रीशेषनागं बलभद्रनाम्ना कुर्वन्ति वर्णनम्॥
ते श्रीप्रद्युम्नं च श्रीअनिरुद्धं च न जानन्ति।
महाज्ञानी इति स्वयम् लोके प्रचारयन्ति॥
अज्ञानं ब्रह्मतत्त्वे, अज्ञानं सिद्धियोगशास्त्रे।
मिथ्याज्ञानं ते लोकेऽस्मिन् प्रचारयन्ति गुरुरूपे॥
☆
ज्ञानम्
न हि ज्ञानेन सदृशं पवित्रमिह विद्यते।
तत् स्वयं योगसंसिद्धः कालेनात्मनि विन्दति॥
न बाह्येषु प्रकाशेषु न शब्देषु न तर्केषु।
शुद्धे चित्ते स्थिते शान्ते ज्ञानं स्वयमेव भाति॥
योगयुक्तो यदा नित्यं स्वात्मन्येवावतिष्ठते।
तस्मै सत्यं स्वयं भाति कदाचन नान्यत्र॥
★
धर्मानुशासनम्
(अनुशासनम्)
अनुशासनं धर्मस्य मूलम्।
तस्य अभावे भवति मूलच्छेदनं।
★
धर्मानुशासनम्
(अनुशासनम्)
अनुशासनं धर्मस्य मूलम्
तस्य अभावे अस्ति मूलच्छेदनं।
★
धर्मानुशासनम्
(अनुशासनम्)
अनुशासनं धर्मस्य मूलम्।
तद्विना पतनं निश्चितम्।
★
सत्यज्ञानम्
सर्वस्य जगतः कर्ता, जीवनस्य परं पदम्।
आनन्दस्यैकनिधिः सः, ब्रह्मतत्त्वं सनातनम्॥
सर्वभूतधारकः देवः, जगत् पोषयते नित्यम्।
निःशब्दकृपायुक्तः सः, सर्वं ददाति निरन्तरम्॥
यत्र सर्वे प्रवाहाः स्युर्, लयं यान्ति निरन्तरम्।
रूपातीतं परं तत्त्वं, स्वप्नतुल्यं जगत्त्रयम्॥
यः जानाति हृदि स्वस्य तत्त्वमेतत् सनातनम्।
स एव ज्ञानवान् लोके, पूर्णत्वं लभते ध्रुवम्॥
★★
उत्तमा योनि: तथा ज्ञानप्राप्तिः
(मुक्तछन्दः)
यः आत्मा वारं वारम् उत्तमां योनिम् आप्नोति,
सः जीवनकाले उत्तमं गुरुं प्राप्नोति।।
सः निश्चयेन ज्ञानवान् भवति।
☆
उत्तमा योनि: तथा ज्ञानप्राप्तिः
(मुक्तछन्दः)
यः आत्मा वारं वारं उत्तमां योनिं प्राप्नोति,
सः जीवन् एव उत्तमं गुरुम् प्राप्नोति।
सः निश्चयेन ज्ञानवान् भवति।
★★
श्रीजगन्नाथ-बलभद्र-शेषनागतत्त्ववर्णनम्
जगन्नाथः परमब्रह्म आदिदेवः सनातनः।
बलभद्रः तस्य अंशः, जगन्नाथप्राणरूपः॥
शेषनागः अनन्तदेवः बलभद्रांशस्वरूपः।
विश्वभारधरणहारः आदिदेवः सनातनः॥
★
श्रीजगन्नाथतत्त्वप्रकाशः
(मुक्तछन्दः)
एकः ब्रह्म महाप्रभुः श्रीजगन्नाथः जगदीश्वरः॥
सर्वाधिकारः तस्यैव, नान्यः कश्चित् ईश्वरः॥
मा कुरुत अन्यायं, मा कुरुत अनधिकारकर्म।
अनधिकारिणः सर्वे लभन्ते धर्मतः दण्डम्॥
अहङ्कारो न रोचते, न रोचते बलदर्पणम्।
विनयः प्रीतिकर्ता स्यात्, तदेव ईश्वराभिलषितम्॥
सर्वेश्वरं महाप्रभुं श्रीजगन्नाथं भक्तवत्सलम्॥
स्वांशैः सह महाप्रभुः करोति जगतः सञ्चालनम्॥
भक्तानुग्रहकर्ता सः लीलया धृतवान् मनुष्यताम्।
लोकहितार्थमुद्दिश्य दर्शयति अद्भुतं चरितम्॥
★
भक्तवत्सलत्वम्
नाहं स्वतन्त्रः अत्र, भक्ताधीनः सदा ह्यहम्।
भक्तेषु मे स्थिता प्रीतिः, ते मे सदा प्राणसमाः ॥
अहम् अस्वतन्त्रः नित्यं, भक्तपराधीन एव च।
स्नेहबन्धेन बद्धोऽस्मि, प्रेम्णा परिकर्षितः॥
न मे स्वार्थः कदाचित् स्यात्, भक्तानां तु सुखं मम।
तेषां विनाशे दुःखं मे, तेषां हर्षे सुखं मम॥
यथा जननी पुत्रे स्वप्राणान् अपि अर्पयेत्।
तथाहं स्वात्मानं भक्तजनाय ददाम्यहम्॥
★
भक्तवत्सल्य-स्तोत्रम् (2)
नाहं स्वतन्त्र एवात्र, भक्ताधीनः सदा ह्यहम्।
भक्तेषु स्थिता मम प्रीति, ते मम प्राणसखा परमः॥
ये भक्ताः शरणं यान्ति, तेषां रक्षां करोम्यहम्।
नाहं जहामि तान् भक्तान्, मयि ते नित्यशरणम्॥
★
भगवत्कथाश्रवणस्य महिमा
(तीर्थातीतं भगवत्स्मरणम्)
अहं अज्ञानी मनसि आशां बिभ्र्याम्।
सर्वानि तीर्थानि भ्रमणेन द्रक्ष्यामि।
परन्तु भगवत्कृपया श्रवणे ज्ञातवान्,
केवलं भगवत्कथाश्रवणमननचिन्तन।
सर्वतत्त्वतीर्थपुण्यज्ञानं विद्यमानम्।
एष अज्ञानिभक्तेभ्यः ददाति ऊर्ध्वमार्गं ।
एष सनातनधर्मस्य सनातनमतम्॥
★
जगन्नाथस्य परीक्षा।
जगन्नाथस्य भक्तस्य परीक्षा अत्यद्भुतम्।
यस्य रहस्यं न जानाति विश्वं चराचरम्॥
जगन्नाथस्य परीक्षायां यः सिद्धः स तीर्थङ्करः।
अज्ञानिनां पापिनां च परिणामो भवति भयङ्करः॥
★
पापिनः चरितम्
(मुक्तछन्दः)
पापी जनः जीवनं आनन्देन रमते।
मृत्युं न बिभेति-“पुनरागमिष्यामि” इति मन्यते।
एवं चिन्तयन् सः लोके पुनः पुनरागच्छति,
पुनरपि सुखं भोक्तुम् इच्छति।
★
पापिनः चरितम्
(मुक्तछन्दः)
पापी जनः जीवनं आनन्देन रमते।
मृत्युं न बिभेति-“पुनरागमिष्यामि” इति मन्यते।
एवं चिन्तयन् सः लोके पुनः पुनरागच्छति,
पुनरपि सुखं भोक्तुमिच्छति।
💧
श्रीजगन्नाथ-पञ्चकम
(श्रीजगन्नाथ-पञ्चकं)
१
निलाद्रिशिखरे रम्ये रत्नसिंहासनस्थितम् ।
दृष्ट्वा ये हृषिताः भक्ताः तं वन्दे जगन्नाथम् ॥
२
करुणासागरं नित्यं भक्तानां दुःखनाशकम् ।
नीलचक्रधरं देवं वन्दे श्रीजगदीश्वरम् ॥
३
दधाने कमलाक्षं तं विश्वरूपं विश्वेश्वरम्।
अनाथनाथमीशानं वन्दे नीलाम्बुदप्रभम् ॥
४
यस्य नामस्मरणं शुद्धं सर्वपापविनाशनम् ।
यः पातयति मोक्षाय तं वन्दे पुरुषोत्तमम् ॥
५
मत्स्याननादिदेहेषु लीला यस्य प्रदर्शितम् ।
सर्वावतारनायक्यं वन्दे श्रीजगदीशरम् ॥
💧
श्री जगन्नाथभक्तितत्त्व।
जगन्नाथार्चनं नित्यं दुष्करं परमं स्मृतम्।
अन्यदेवाः सुप्रीतास्ते स्वल्पसेवाप्रसन्नकम्॥
हरेर्भक्तजनाः सरलाः सदा दीनाः परिक्लिष्टकाः।
दीननिन्दिताः सन्ति ते, तेषां हृदि न हि दर्पाः॥
राज्यधनं न लभन्ति, तथापि हृष्यन्ति चेतसा।
सर्वदा स्नेहमग्नाः सन्ति जगन्नाथसन्निधौ स्थिताः॥
राज्यलाभसमृद्ध्यादि लब्ध्वा मदान्धिताः।
स्वदातारं विस्मरन्ति, भक्ताः भगवानं न विस्मृता॥
★
सनातनधर्मस्य प्रथमः सोपानः
(The First Step of Sanatana Dharma)
प्रथमं सत्पुरुषो भव, ततः सर्वकर्माण्याचर।
कामक्रोधलोभवर्जितः, दयामार्गे सदा स्थितः॥
हत्याहिंसाविनिर्मुक्तः, धर्ममार्गे दृढस्थितः।
लोकहिते सदा युक्तः, सत्ये नित्यं प्रतिष्ठितः॥
दयाशीलसमायुक्तः, न्यायमार्गे व्यवस्थितः।
एषः सनातनधर्मस्य, प्रथमः सोपानः स्मृतः॥
★
सनातनधर्मस्य द्वितीयः सोपानः
(The Second Step of Sanatana Dharma)
प्रथमं निष्कामकर्म स्यात्, द्वितीयं तत्त्वज्ञानार्जनम्।
तृतीयो भक्तियोगश्च, चतुर्थं आत्मप्रकाशकम्॥
कर्मयोगेन चित्तशुद्धिः, ज्ञानयोगेन ज्ञानार्जनम्।
भक्तियोगेन भक्तिप्राप्तिः, जीवहिते श्रेष्ठा गतिः॥
सर्वे मार्गाः लक्ष्यन्ते, लभ्यते मोक्षः स्यात्।
एषः सनातनधर्मस्य, द्वितीयः सोपानः स्मृतः॥
☆
श्रीविष्णु-दशनाम-स्तोत्रम्
1
देवनागरी:
विष्णुं महाविष्णुमजं जगन्नाथं जगत्प्रभुम् ।
वासुदेवं बलभद्रं प्रद्युम्नमनिरुद्धकम् ॥ १ ॥
IAST:
viṣṇuṁ mahāviṣṇum ajaṁ jagannāthaṁ jagatprabhum .
vāsudevaṁ balabhadraṁ pradyumnam aniruddhakam .
2
देवनागरी:
श्रीहरिं नारायणं देवं परब्रह्म परमात्मकम् ।
लक्ष्मीपतिं च सङ्कर्षणं वन्दे विष्णुं सनातनम् ॥ २ ॥
IAST:
śrīhariṁ nārāyaṇaṁ devaṁ parabrahma paramātmakam.
lakṣmīpatiṁ ca saṅkarṣaṇaṁ vande viṣṇuṁ sanātanam .
फलश्रुति:
देवनागरी:
इदं दशनामस्तोत्रं यो भक्त्या पठति नरः ।
सर्वपापविनिर्मुक्तो विष्णुलोकं स गच्छति ॥
IAST:
idaṁ daśanāma-stotraṁ yo bhaktyā paṭhati naraḥ.
sarva-pāpa-vinir-mukto viṣṇu-lokaṁ sa gacchati .
★
श्रीविष्णोः षोडशनामस्तोत्रम्।
1
देवनागरी:
विष्णुं महाविष्णुमजं जगन्नाथं जगत्प्रभुम् ।
वासुदेवं बलभद्रं प्रद्युम्नं परमं सुधीः ॥
IAST:
viṣṇuṁ mahāviṣṇum ajaṁ jagannāthaṁ jagatprabhum .
vāsudevaṁ balabhadraṁ pradyumnaṁ paramaṁ sudhīḥ.
2
देवनागरी:
अनन्तमनिरुद्धं च श्रीहरिं नारायणं विभुम् ।
परब्रह्म परमात्मानं लक्ष्मीपतिरमापतिम् ॥
IAST:
anantam aniruddhaṁ ca śrī-hariṁ nārāyaṇaṁ vibhum.
parabrahma paramātmānaṁ lakṣmī-patiramā-patim.
3
देवनागरी:
सङ्कर्षणं सच्चिदानन्दं पद्मनाभं पुरुषोत्तमम् ।
मुकुन्दं माधवं देवं केशवं गोविन्दमव्ययम् ॥
IAST:
saṅkarṣaṇaṁ saccidānandaṁ padmanābhaṁ puruṣottamam
mukundaṁ mādhavaṁ devaṁ keśavaṁ govindam avyayam
4
देवनागरी:
अच्युतं चानन्तरूपं च आदिपुरुषमादिदेवम् ।
सनातनं जनार्दनं च वेदात्मानं विश्वरूपकम् ॥
IAST:
acyutaṁ cānantarūpaṁ ca ādipuruṣam ādidevam
sanātanaṁ janārdanaṁ ca vedātmānaṁ viśvarūpakam
फलश्रुति:
देवनागरी:
षोडशनामस्तोत्रं यः पठेन्मुक्तमानसः ।
सर्वपापविनिर्मुक्तो विष्णुलोकं स गच्छति ॥ १ ॥
यः पठेत् प्रातरुत्थाय सर्वसिद्धिफलप्रदः ।
आरोग्यं सम्पदं दीर्घमायुः बलमवाप्नुयात् ॥ २ ॥
IAST:
ṣoḍaśa-nāma-stotraṁ yaḥ paṭhen mukta-mānasaḥ
sarva-pāpa-vinir-mukto viṣṇu-lokaṁ sa gacchati
yaḥ paṭhet prātaṛtthāya sarva-siddhi-phala-pradaḥ
ārogyaṁ sampadaṁ dīrgham āyuḥ balam avāpnuyāt
💗
हरिभक्तः।
हरिभक्तो न कामयते पदवीं, न कामयते सम्मानं।
निष्कामप्रेमप्लावितनेत्रः हरिमयः तस्य प्राणः।
न वादो न विवादोऽस्ति, एकान्तमेव तस्य प्रियम्।
न शिखा न तिलकं तस्य, हरिप्रेमैव तस्य बलम्।
★
अनन्तो हरिः, अनन्ता हरिकथा,
अनन्तानि शास्त्राणि॥
(मुक्त छंद )
अनन्तो हरिरव्यक्तो लीलाश्चास्यानन्ताः।
शास्त्राण्यप्यनन्तानि कथाश्चास्यानन्ताः॥
अनन्तोऽस्य गुणो दिव्यो नास्ति तस्य परिसीमना।
न कश्चिज्जानाति पूर्णं तस्य दिव्यं चरितं नराः॥
नादिर्न चान्तो यस्य प्रभोर्नित्यविभूतिषु।
अनन्तेऽस्मिन् हरेः कीर्तिः प्रवहत्येव मे चेतसि॥
निष्कामकर्मणा नित्यं निष्कामधर्मपालनात्।
लभ्यते स हरिः साक्षान्निष्कामभावनात्॥
💓
ईश्वरस्य समीपे जीवप्रार्थना ।
(मुक्तछन्दः)
शक्तिप्रार्थना:
इत्थं शक्तिं प्रदेहि श्रीनाथ,
मा नः श्रद्धा क्षणमपि क्षीयताम्।
सत्पथे नय जीवनपन्थानं,
मा नः स्खलनं भवतु किञ्चन॥
ज्ञानप्रार्थना:
अज्ञानतिमिरं पूर्णं नाशय,
ज्ञानदीपप्रभया विभासय।
पापमार्गात् सदा रक्ष नः,
कल्याणीं जीवनविधिं प्रयच्छ॥
सद्भावप्रार्थना:
नास्तु वैरं कस्यचिदपि,
नास्तु प्रतिशोधभावना मनसि।
न चिन्तयेम वयं स्वलाभकम्,
सदा स्मरामः कृतमर्पणम्॥
करुणाप्रार्थना:
आनन्दपुष्पाणि वयं वितराम,
सर्वेषां जीवनमेतु मधुवनम्।
करुणाजलधारया जगन्नाथ,
पावय सर्वं मनसः कोणकम्॥
लोकदुःखनिवारणप्रार्थना:
दुःखमयं सर्वतोऽयं जगत्,
त्रस्तमानसो जनः कम्पितः।
पापभारो वर्धते नित्यशः,
कथं धरा धृतवती प्रभो॥
ममताप्रार्थना:
ममतया भगवन् भारमेतं
उद्धर त्वं करुणासिन्धो।
मा लुप्यतां तव सृष्टिरियम्,
शान्तिर्लोके भवतु स्थिरा॥
आत्मशुद्धिप्रार्थना :
स्वकृतं फलमश्नुयाम वयं,
मृत्योरपि नः भयं मा अस्तु।
अतीतदुःखं न पुनर्भवेत्,
भविष्यत् कल्याणमयं कुरु नाथ॥
अन्तिम ध्रुवपदः
इत्थं शक्तिं प्रदेहि श्रीनाथ,
मा नः श्रद्धा क्षणमपि क्षीयताम्।
सत्पथे नय जीवनपन्थानं,
मा नः स्खलनं भवतु किञ्चन॥
★
ॐ अस्य श्रीविष्णु-शतनाम-स्तोत्रस्य ।
अनुष्टुप्छन्दः ।
श्रीमहाविष्णुः (श्रीजगन्नाथः) देवता ।
श्रीलक्ष्मीप्रसाद-सिद्ध्यर्थे जपे विनियोगः ॥
ऋषिः श्रीजगन्नाथदासः (भगवद्भक्तः, जगन्नाथस्य सेवकः) ।
छन्दः अनुष्टुप् ।
देवता - श्रीमहाविष्णुरेव श्रीजगन्नाथः ॥
स्तोत्रम्
विष्णुः नारायणो देवो वासुदेवो महाबलः ।
महाविष्णुर्दामोदरः प्रद्युम्नोऽनिरुद्धकः ॥ १ ॥
हृषीकेशो महामायो माधवो गोविलोचनः ।
पुरुषोत्तम जनार्दनः पद्मनाभोऽच्युतोऽनघः ॥ २ ॥
अनन्तः शेषशायी च मधुसूदन ईश्वरः ।
त्रिविक्रमो वामनोऽपि केशवो नरसिंहकः ॥ ३ ॥
वराहो हयग्रीवश्च श्रीपतिः लक्ष्मीपतेः प्रभुः ।
जगन्नाथो रंगनाथो गिरिधारी मुकुन्दकः ॥ ४ ॥
अच्युतानन्द जगद्गुरुर्वेदात्मा योगनायकः ।
आदिदेवः सर्वेशोऽपि माधवप्रिय उच्यते ॥ ५ ॥
बलभद्रश्च विश्वेशो विश्वरूपोऽथ सांप्रतं ।
सत्यनारायणो देवः परब्रह्म सनातनः ॥ ६ ॥
सत्यव्रतः शरण्यश्च शरणागतवत्सलः ।
भक्तवत्सल हरिर्देवः कृष्णो रामेश्वरः प्रभुः ॥ ७ ॥
बलरामो महाशक्तिः श्यामसुन्दर एव च ।
चतुर्भुजोऽथ पीताम्बरः सुधर्शनधरः प्रभुः ॥ ८ ॥
शङ्खचक्रगदापद्मधरः श्रीवैष्णवेश्वरः ।
वैकुण्ठो जगतां नाथः सृष्टिकर्ता सनातनः ॥ ९ ॥
पालनकर्ता लोकानां संहारकर्ता हरिः प्रभुः ।
दयासिन्धुस्तथा चैव करुणानिधिरव्ययः ॥ १० ॥
कालेश्वरस्त्रिलोकनाथः परशुराम एव च ।
रामचन्द्रो जगन्नाथः कृष्णो द्वारकाधिपः ॥ ११ ॥
गोपालो मुरलीधारी मुरारी यदुनायकः ।
दयामयो ब्रह्मण्यश्च धर्मसंस्थापकः प्रभुः ॥ १२ ॥
कालियन्तक गोवर्धन-धारी यशोदानन्दनः ।
देवकीनन्दनो देवो वसुदेवानन्दनो हरिः ॥ १३ ॥
परमेश्वर उपेन्द्रोऽज्ञेयः सर्वगतः प्रभुः ।
अखिलेशो जगन्नाथः कालपुरुष एव च ॥ १४ ॥
ब्रह्मविद्यायज्ञरूपश्च विश्वात्मा जगतां प्रभुः ।
आदिकेशव श्रीधरश्च चक्रधारी सनातनः ॥ १५ ॥
नन्दकायुधधारी च भक्तानुकूल एव च ।
सर्वेशः शरणं नित्यं जगत्पालक ईश्वरः ॥ १६ ॥
नित्यः श्रीनिवासश्चानन्तवीर्योऽज एव च ।
श्रीमन्नारायणो देवो गोवर्धनगिरिधरः ॥ १७ ॥
फलश्रुतिः
श्रीविष्णोर्नामशतकमिदं भक्त्या यः पठेन्नरः ।
सर्वपापविनिर्मुक्तो विष्णुलोकं स गच्छति ॥
दारिद्र्यं दुःखरोगाणि शत्रवो बाधकाः क्षणात् ।
नश्यन्ति नित्यं ध्यायन्तं स्तोत्रमेतत्सुनिश्चितम् ॥
इति श्रीविष्णु-शतनाम-स्तोत्रं सम्पूर्णम् ॥
💧
श्रीविष्णोः शताष्टकं नामस्तोत्रम्।
ॐ श्री गुरुभ्यो नमः । हरिः ॐ ॥
ध्यानम्।
शान्तं शाश्वतमव्यक्तं नित्यं विष्णुमनाश्रितम् ।
अनन्तरूपमद्वैतं सर्वकारणकारणम् ॥
स्तोत्रारम्भः।
नमोऽस्तु नारायणाय विश्वस्याधारकारिणे ।
भक्ताभीष्टप्रदातारं वन्दे विष्णुं सनातने ॥
नाममाला
श्रीकृष्णः केशवः कान्तः पद्मनाभोऽगोपतिः प्रभुः ।
नारायणो मधुरिपुर्वैकुण्ठो मधुसूदनो मुदा ॥
गोविन्दो गोकुलेशश्च दामोदरः जनार्दनः ।
परं ज्योतिरच्युतो देवः पुरुषोत्तम ईश्वरः ॥
अनन्तः शङ्खपाणिश्च ब्रह्माण्डाधिपतिर्बलः ।
वरदः शार्ङ्गपाणिश्च जगन्नाथो जगद्गुरुः ॥
धर्माध्यक्षो वत्सलश्च शीलवान्भक्तवत्सलः ।
वसुदेवो हरिः सर्वात्मा हरिहारः सुसत्त्वलः ॥
सर्वज्ञः सर्वभूतात्मा प्रद्योतकः शुभाङ्गलः ।
गोपीजनवल्लभो नित्यं शान्तः परात्परः प्रभुः ॥
सुमेधाः सुगुणी धीरः ज्ञानधनः सर्वशक्तिमान् ।
सुरश्रेष्ठः पद्मनाभो हृषीकेशः प्रभोत्तमः ॥
दयानिधिर्विष्णुरीशः ब्रह्माम्बुधिमदायकः ।
विश्वसृष्टिकरो देवः शैलाध्यक्षो दयालयः ॥
अच्युतोऽथ सहस्रशीर्षा कपिलो गुरुरव्ययः ।
सर्वात्मा सर्वदेवेशो विष्णुः प्रभुरनन्तयः ॥
स्वयम्भूः शुभ ईशानो विश्वनाथः कृपासरः ।
सद्गुणप्रद ईशानो धर्मसंस्थापकः शुचिः ॥
योगी वेदोत्तमश्चैव भक्तवत्सल कल्याणदः ।
कृष्णः श्यामः मधुरो देवो भवमोहे च हितो हरिः ॥
कैलासनाथो नृहरिः वीर्यवान् शरणान्तरः ।
नित्यानन्दो निर्मलो व्योमगो विश्वनाथकः ॥
समर्थः शरणागतानां दाता भक्तमनोरमः ।
अर्जुनप्रियः पाण्डवात्मा जगन्नाथः परप्रभुः ॥
रामो धर्मप्रवर्ता वै सीतापतिः सदाश्रयः ।
भक्तवत्सलः सर्वकरो दैत्यानाशकरो हरिः ॥
भूतभव्यो भवेशानो सर्वलोकनिवासकः ।
सर्वभूतहितैषी नित्यं सद्गुरुः हरिरेव च ॥
सर्वज्ञः सर्वेश्वरश्च शरणागतवत्सलः ।
सत्यव्रती वचनप्रियः पद्मनाभो जगद्पतिः ॥
परमात्मा जगत्स्वामी शाश्वतो हरिरच्युतः ।
गोविन्दो हरिकृष्णश्च सुन्दरः सुधया युतः ॥
गोपीनाथो दामोदरः जीवनाधारसुन्दरः ।
सर्वभवविनाशकश्च शान्तः पद्मनाभहरिः ॥
वासुदेवः पुरुषोत्तमः सर्वप्राणप्रियः प्रभुः ।
अनन्तरूपः सत्प्रज्ञः श्रीहरिः स्मरणोचितः ॥
सच्चिदानन्ददेवेशः सर्वलोकनयोदयः ।
परमेशः शाश्वतो नित्यं भक्तवत्सल एव हि ॥
अनन्तविभुतिं धत्ते शरणागतहितैषिणः ।
विष्णुर्दयासागरः श्रीमान् पद्मनाभो जगद्गुरुः ॥
सुरप्रियः गोपीनाथो दामोदरः सुशीलवान् ।
हरिः सर्वकरो नित्यं भक्तपालनतत्परः ॥
हरिदत्तः प्रसन्नात्मा शरणागतविनाशकः ।
वासुदेवो सदानुरक्तश्च श्रीधरः सर्वशक्तिमान् ॥
चतुर्भुजः शार्ङ्गधारी सत्यवाक्यप्रकाशकः ।
विष्णुर्नमो नमस्तेऽस्तु जगन्मोहनमानदः ॥
प्रभाकरः सुरेशश्च लोकनाथो जनप्रभुः ।
श्रीहरिः श्रुतिपूज्यश्च शान्तः भक्तप्रियः सदा ॥
★
अनन्तनारायणाष्टकम्
नमामीश्वरं सच्चिदानन्दरूपं, परं ब्रह्म देवावर्णनीयरूपम्।
तव लीला अनन्ता तव रूपमनन्तं, न जानाति वेदः न ब्रह्मादिदेवम्॥
नमो देवश्च देव अनन्तविष्णो, प्रसीद प्रभो दुःखजालाब्धिमग्नम्।
इतीदृक्स्वलीलाभिरानन्दकुण्डे, स्वघोषं निमज्जन्तमाख्यापयन्तम्॥
इदं ते वपुर्नाथ परमसुन्दरबालं, सदा मे मनस्यविरास्तां किमन्यैः।
मुहुर्मुहर्दृष्ट्या तव सुन्दररूपं मे, मनस्याविरास्तामलाक्षलाभैः॥
इदं तवाम्भोजमुखमनव्यक्तं सुन्दरं वृत्तं, कुन्तलैः स्निग्धैर्लालित्ययुक्तं सहारुणम्।
तदीयेषु भक्तेषु जितचेतसं हरिं, पुनः प्रेमतस्तं शतकोटिवृत्त्या वन्दे॥
कृपादृष्टिवृष्ट्या अतिदीनं सदा, सर्वाननुगृहाणेश सर्वज्ञमध्यदृश्य।
वरं देव मोक्षं न मोक्षावधिं वा, न चान्यं वृणेऽहं वरेशादपीह॥
यथा सर्वे पुण्यतमाः ये बद्धा आसन्, त्वं स्वकृपया मोचितवान्।
तथा भक्तान् मोचय तथा प्रेमभक्तिं स्वकां मे प्रयच्छ, न मोक्षे गृहो मेऽस्ति॥
नमो भगवते स्वतेजोरूपोज्ज्वलाय, यस्योदरेऽपि च सम्पूर्णं जगन्निवसति।
नमो परं ब्रह्म त्वदीयप्रियायै, नमोऽनन्तलीलाय देवाय तुभ्यम्॥
नमामीश्वरं सच्चिदानन्दरूपं, परं ब्रह्म देवावर्णनीयरूपम्।
नमो देवश्च देव अनन्तविष्णो, प्रसीद प्रभो दुःखजालाब्धिमग्नम्॥
★
सर्वेश्वर-स्तोत्रम्
त्वमेव ईश्वरः परमेश्वरः त्वमेव,त्वमेव मार्गदर्शी सत्यमित्रं त्वमेव।
त्वमेव विद्या द्रविणं त्वमेव,त्वमेव बुद्धिः ज्ञानं त्वमेव॥
त्वमेव बाल्यं प्रबोधनं त्वमेव, त्वमेव तारुण्यबलं त्वमेव।
त्वमेव वृद्ध्यां शरणं त्वमेव, त्वमेव नित्यं मम देव देव॥
त्वमेव नयनं मम दीपकं त्वमेव, त्वमेव हृदयं च आत्मा त्वमेव।
त्वमेव दैन्यं करुणा त्वमेव, त्वमेव नित्यं मम देव देव॥
त्वमेव शान्तिः परमानन्द एव, त्वमेव सत्यं परमं त्वमेव।
त्वमेव जीवनं मरणं त्वमेव, त्वमेव नित्यं मम देव देव॥
त्वमेव ध्यानं जपपूजनं त्वमेव, त्वमेव देवो जगदीश्वरो त्वमेव,
त्वमेव मुक्तिर्मम मोक्षदाता त्वमेव, त्वमेव नित्यं मम देव देव॥
फलशृत्तिः
यस्संप्रयत्नं पठते नरः श्रद्धया,
भक्त्या समन्वितमिदं स्तवं हृदि।
लभेत स सौख्यं परमं च कल्याणं,
सर्वेश्वरस्य प्रसादसिद्धिः॥
☆
चतुर्व्यूहस्तोत्रम्
Hymn in Praise of the
Four Form of the Supreme
सच्चिदानन्दं परब्रह्म परं, आद्यां शक्तिं परमेश्वरीम्।
वासुदेवं सङ्कर्षणं च, प्रद्युम्नं चानिरुद्धकम्॥
चतुर्व्यूहरूपिणं देवं, नमामि परब्रह्म परं।
नमामि तव पादपङ्कजं, शरण्यं भक्तवत्सलम्॥
भवबन्धविनाशनाय, भक्तानां परमं सुखम्।
नामस्मरणमात्रेण, दातुं शक्तो जनार्दनः॥
निर्मलसङ्काशं तेजस्वि, लोकातीतं निरञ्जनम्।
योगिध्येयं अनावृतं, स्वयंप्रभं सनातनम्॥
न मे अस्ति शरणं नाथ! त्वदन्यः परमेश्वरः।
त्वत्पादाम्बुजं ध्यायन्, प्रविश्येते मोक्षद्वारम्॥
यं पठेन्मनुजः भक्त्या चतुर्व्यूहं मनोहरम्।
विमुक्तिः स्याद्भवाब्धेः स विष्णुलोकं प्राप्नुयात्॥
💧
गृहस्थवैष्णवानां कृते शान्तिमन्त्रः
॥ शान्तिः-मन्त्रः ॥
हे प्रभो वयं हि गृहिणो वैष्णवभावनान्विताः,
त्वां भक्त्या प्रतिपद्येम प्रेम्णा रहितजीविताः।
त्वद्भक्तिविरहः साक्षात् दुःसहः स्यात् त्वयि विना ।
त्वं नाथः परमैकः स्यान्, नान्यः दयालुभिः विना ॥
देव त्वं कुटुम्बमस्माकं मित्राण्यपि च पालय,
सर्वान् भक्तजनान् नित्यं स्वकृपावृष्टिभिः सदा।
विश्वासे दृढतां देहि शुद्धेनान्तःकरणेन,
शान्तिं देहि जनानां च भूयाद् शान्तिः सनातनम्॥
ॐ शान्तिः शान्तिः शान्तिः ॥
